|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.44. अध्यायः 044
Mahabharata - Adi Parva - Chapter Topics
परीक्षिन्मरणोत्तरं तत्पुत्रस्य जनमेजयस्य राज्याभिषेकः॥ 1 ॥ वपुष्टमाविवाहः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-44-0x(216)(1930)
तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम्।
विषण्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः॥ 1-44-1(1931)
तं तु नागं ततो दृष्ट्वा मन्त्रिणस्ते प्रदुद्रुवुः।
अपश्यन्त तथा यान्तमाकाशे नागमद्भुतम्॥ 1-44-2(1932)
सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम्।
तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः॥ 1-44-3(1933)
ततस्तु ते तद्गृहमग्निना वृतं
प्रदीप्यमानं विषजेन भोगिनः।
भयात्परित्यज्य दिशः प्रपेदिरे
पपात तच्चाशनिताडितं यथा॥ 1-44-4(1934)
ततो नृपे तक्षकतेजसाहते
प्रयुज्य सर्वाः परलोकसत्क्रियाः।
शुचिर्दिजो राजपुरोहितस्तदा
तथैव ते तस्य नृपस्य मन्त्रिणः॥ 1-44-5(1935)
नृपं शिशुं तस्य सुतं प्रचक्रिरे
समेत्य सर्वे पुरवासिनो जनाः।
नृपं यमाहुस्तममित्रघातिनं
कुरुप्रवीरं जनमेजयं जनाः॥ 1-44-6(1936)
स बाल एवार्यमतिर्नृपोत्तमः
सहैव तैर्मन्त्रिपुरोहितैस्तदा।
शशास राज्यं कुरुपुंगवाग्रजो
यथाऽस्य वीरः प्रपितामहस्तथा॥ 1-44-7(1937)
ततस्तु राजानममित्रतापनं
समीक्ष्य ते तस्य नृपस्य मन्त्रिणः।
सुवर्णवर्माणमुपेत्य काशिप
वपुष्टमार्थं वरयांप्रचक्रमुः॥ 1-44-8(1938)
ततः स राजा प्रददौ वपुष्टमां
कुरुप्रवीराय परीक्ष्य धर्मतः।
स चापि तां प्राप्य मुदा युतोऽभव-
न्न चान्यनारीषु मनो दधे क्वचित्॥ 1-44-9(1939)
सरःसु फुल्लेषु वनेषु चैव
प्रसन्नचेता विजहार वीर्यवान्।
तथा स राजन्यवरो विजह्रिवान्
यथोर्वशीं प्राप्य पुरा पुरूरवाः॥ 1-44-10(1940)
वपुष्टमा चापि वरं पतिव्रता
प्रतीतरूपा समवाप्य भूपतिम्।
भावेन रामा रमयांबभूव तं
विहारकालेष्ववरोधसुन्दरी॥ ॥ 1-44-11(1941)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुश्चत्वारिंशोऽध्यायः॥ 44 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-44-2 दह्यमानं ततो दृष्ट्वा इति पाठान्तरम्॥ 1-44-7 प्रपितामहो युधिष्ठिरः॥ 1-44-8 वपुष्टमा काशिराजकन्या॥ 1-44-11 वरं वरणीयम्। प्रतीतरूपा हृष्टरूपा॥ चतुश्चत्वारिंशोऽध्यायः॥ 44 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|